|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.98. अध्यायः 098
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रत्यन्नदानप्रशंसनपूर्वकं तत्फलकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः।
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम॥ 13-98-1(85381)
केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च।
शंस मे तन्महाबाहो फलं पुण्यकृतं महत्॥ 13-98-2(85382)
दत्तं किं फलवद्राजन्निह लोकें परत्र च।
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद॥ 13-98-3(85383)
भीष्म उवाच। 13-98-4x(7088)
इममर्थं पुरा पृष्टो नारदो देवदर्शनः।
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु॥ 13-98-4(85384)
नारद उवाच। 13-98-5x(7089)
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा।
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्॥ 13-98-5(85385)
अन्नेन सदृशं दानं न भूतं न भविष्यति।
तस्मादन्नं विशेषेणि दातुमिच्छन्ति मानवाः॥ 13-98-6(85386)
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः।
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो॥ 13-98-7(85387)
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तापसास्तथा॥
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः॥ 13-98-8(85388)
कटुम्बिने सीदते च ब्राह्मणाय महात्मने।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ 13-98-9(85389)
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने।
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः॥ 13-98-10(85390)
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्।
अर्ययेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्॥ 13-98-11(85391)
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः।
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्॥ 13-98-12(85392)
नावमन्येदभिगतं न प्रणुद्यात्कदाचन।
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति॥ 13-98-13(85393)
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्॥ 13-98-14(85394)
पितॄन्देवानृपीन्विप्रानतिथींश्च जनाधिप।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्॥ 13-98-15(85395)
कृत्वाऽतिपातकं कर्म यो दद्यादन्नमर्थिने।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते॥ 13-98-16(85396)
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्।
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते॥ 13-98-17(85397)
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च।
भिक्षितो ब्राह्मणेनान्नं दद्यादेवाविचारतः॥ 13-98-18(85398)
अन्नदस्यान्नदा वृक्षाः सर्वकामफलप्रदाः।
भवन्ति चेह चामुत्र नृपते नात्र संशयः॥ 13-98-19(85399)
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः।
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति॥ 13-98-20(85400)
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते।
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्॥ 13-98-21(85401)
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्।
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा॥ 13-98-22(85402)
सत्कताश्च निवर्तन्ते तदतीव प्रवर्धते।
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत॥ 13-98-23(85403)
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्।
स्विष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः॥ 13-98-24(85404)
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठिम्।
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि॥ 13-98-25(85405)
प्राणवांश्चापि भवति रूपवांश्च तथा नृप।
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः॥ 13-98-26(85406)
अन्नं हि दत्त्वाऽतिथये ब्राह्मणाय यथाविधि।
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते॥ 13-98-27(85407)
ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर।
उप्यते तत्रि यद्बीजं तद्धि पुण्यफलं महत्॥ 13-98-28(85408)
प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत॥ 13-98-29(85409)
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत।
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः॥ 13-98-30(85410)
अन्नं ह्यमृतमित्याह पुरा कल्पे प्रजापतिः। 7-98-3ab अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्॥ 13-98-31(85411)
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः।
बलं बलवतोपीह प्रणश्यत्यन्नहानितः॥ 13-98-32(85412)
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा।
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते॥ 13-98-33(85413)
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम्।
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः॥ 13-98-34(85414)
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च।
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव॥ 13-98-35(85415)
मेघेषूर्ध्वं सन्निधत्ते प्राणानां पवनः पतिः।
तच्च मेघगतं वारि शक्रो वर्षति भारत॥ 13-98-36(85416)
आदत्ते च रसान्भौनानादित्यः स्वगभस्तिभिः।
वायुरादित्यतस्तांश्च रसान्देवः प्रवर्षति॥ 13-98-37(85417)
तद्यदा मेघतो वारि पतितं भवति क्षितौ।
तदा वसुमती देवी स्निग्धा भवति भारत॥ 13-98-38(85418)
ततः सस्यानि रोहन्ति येन वर्तयते जगत्।
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः॥ 13-98-39(85419)
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते।
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह॥ 13-98-40(85420)
एवमन्नाद्धि सूर्यश्च पवनः शक्रमेव च।
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे॥ 13-98-41(85421)
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने॥ 13-98-42(85422)
भीष्म उवाच। 13-98-43x(7090)
नारदेनैवमुक्तोऽहमन्नदानं सदा नृप।
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः॥ 13-98-43(85423)
दत्त्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो।
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि॥ 13-98-44(85424)
अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्॥ 13-98-45(85425)
नानासंस्थानि रूपाणि नानास्तम्भान्वितानि च।
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च॥ 13-98-46(85426)
तरुणादित्यवर्णानि स्थावराणि चराणि च।
अनेकशतभौमानि सान्तर्जलचराणि च॥ 13-98-47(85427)
वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः॥ 13-98-48(85428)
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः॥ 13-98-49(85429)
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च।
क्षीरं स्रवन्ति सरितस्तथा चैवान्नपर्वताः॥ 13-98-50(85430)
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोञ्ज्वलाः।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव॥ 13-98-51(85431)
एते लोकाः पुण्यकृता अन्नदानां महात्मनाम्।
तस्मादन्नं प्रयत्नेन दातव्यं मानवैर्भुवि॥ ॥ 13-98-52(85432)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टनवतितमोऽध्यायः॥ 98 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-98-9 कुटुम्बं पीडयित्वापि ब्राह्मणायेति ट.ध.पाठः॥ 7-98-19 अन्नदस्यान्नवृक्षाश्चेति झ.पाठः॥ 7-98-28 क्षेत्र चरति पादवत् इति थ.ध.पाठः॥ 7-98-33 ब्रह्म वेदः॥ 7-98-36 मेघेषूदकमादत्ते प्राणानां पवनः शिव इति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|